|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.198. अध्यायः 198
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन पाण्डवान्प्रति विप्राय गोप्रदानरूपयवातिचरितकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
[*मार्कण्डेय उवाच। 3-198-0x(2427)(23728)
इदमन्यच्छ्रूतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे ॥ गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच ॥ 3-198-1(23729)
ब्रवीतु भगवान्समयमिति ॥ 3-198-2(23730)
ब्राह्मण उवाच। 3-198-3x(2428)
विद्वेषणं परमं जीवलोके
कुर्यान्नरः पार्थिव याच्यमानः।
तं त्वां पृच्छामि कथं तु राज-
न्दद्याद्वान्दयितं च मेऽद्य ॥ 3-198-3(23731)
राजोवाच। 3-198-4x(2429)
नचानुकीर्तये दद्य दत्त्वा
अयाच्यमर्थं न च संशृणोमि।
प्राप्यमर्थं च संश्रुत्य
तं चापि दत्त्वा सुसुखी भवामि ॥ 3-198-4(23732)
ददामि ते रोहिणीनां सहस्रं
प्रियो हि मे ब्राह्मणो याचमानः।
न मे मनः कुप्यति याचमाने
दत्तं न शोचामि कदाचिदर्थम् ॥ 3-198-5(23733)
इत्युक्त्वा ब्राह्मणा राजा गोसहस्रं ददौ।
प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति ॥ 3-198-6(23734)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-198-3 विद्वेषणं याचकस्य द्वेषम्। प्रीत्यैव ददासि चेत् ग्रहीष्यामीत्यर्थः ॥ 3-198-4 हे दद्य ददो हानं तदर्ह ॥ 3-198-5 रोहिणीनां गवाम् ॥ * - एतदाद्यध्यायत्रयं षोढशगद्याधिकं झ. पुस्तकएव दृश्यते नेतरकोशेषु।

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|